Followers

बुधवार, 12 जनवरी 2022

श्रीसंकष्टनाशन गणेशस्तोत्रम्

श्रीसंकष्टनाशन गणेशस्तोत्रम् 



नारद उवाच –


 प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।
 भक्तावासं स्मरेन्नित्यम् आयुः कामार्थसिद्धये॥१॥ 


प्रथमं वक्रतुण्डञ्च एकदन्तं द्वितीयकम्।
 तृतीयकं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम्॥२॥ 


लम्बोदरं पञ्चमं च षष्ठं विकटमेव च।
 सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्॥३॥


नवमं भालचन्द्रं च दशमं तु विनायकम्। 
एकादशं गणपतिं द्वादशं तु गजाननम्॥४ll


द्वादशैतानि नामानि त्रिसन्धयं यः पठेन्नरः।
 न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो॥५॥ 


विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।
 पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्॥६॥


 जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्।
 संवतसरेण सिद्धिं च लभते नात्र संशयः।७॥ 


अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्। 
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः॥८॥


 इतिश्रीनारदपुराणे संकष्टनाशनगणेशस्तोत्रं सम्पूर्णम्।।
💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐

अद्यतनसुभाषितम्

        अद्यतनसुभाषितम्     कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।     मा कर्मफलहेतुर्भूर्मा ते सङ्गोस्त्वकर्मणि।।   अर्थात्   श्रीकृष्ण अर्जुन...