Followers

शनिवार, 4 फ़रवरी 2023

अभ्यासप्रश्नपत्रं - १ (अपठित-अवबोधनम्)

        अभ्यासप्रश्नपत्रानुसारम्

    कक्षा - षष्ठी तःअष्टमी पर्यन्तं 

             खण्ड-क 

      (अपठित-अवबोधनम्)-(8अङ्काः)


प्रश्न 1.अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि  संस्कृतेन लिखत।
विद्यालयस्य पूर्वभागे एकः पुस्तकालयः अस्ति। पुस्तकालये विविधाः ग्रन्थाः सन्ति। ग्रन्थाः अस्मान् ज्ञानं प्रयच्छन्ति। छात्राः अवकाश-समयस्य सदुपयोगाय पुस्तकालये आगच्छन्ति। पुस्तकालये विविधाः पत्र-पत्रिकाः सन्ति। पुस्तकालय-अध्यक्षः अपि सहजः सरलश्च अस्ति । पुस्तकालयः वातानुकूलितम् अस्ति। पुस्तकालये संसाधनानाम् अभावः  कुत्रापि न दृश्यते।

अ.एकपदेन उत्तरत -

(क) विद्यालयस्य पूर्वभागे किम् अस्ति?
(ख) पुस्तकालयः कीदृशम् अस्ति?
(ग) ग्रन्थाः अस्मान् किं प्रयच्छन्ति?
(घ) पुस्तकालये विविधाः के सन्ति?

ब. पूर्णवाक्येन उत्तरत-

(क) छात्राः किमर्थं पुस्तकालये आगच्छन्ति?
(ख) कः सहजः सरलश्च अस्ति?

स.प्रदत्त विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत -

(i) अनेकाः इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
(क) विविधाः (ख) अस्मान् 
(ग) अभावः (घ) ग्रन्थाः 


(ii)असहजः इति पदस्य किं विपरीतार्थकं पदं गद्यांशे प्रयुक्तम्?
(क) सरलः (ख) विविधाः
(ग) सहजः (घ) अभावः


(iii) ग्रन्थाः इति विशेष्यपदस्य विशेषणपदं किम् अत्र प्रयुक्तम्?
(क) छात्राः (ख) विविधाः 
(ग) पुस्तकालयः (घ) विद्यालयः

द. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।

               उत्तराणि

अ.एकपदेन उत्तरत -

(क) पुस्तकालयः।
(ख) वातानुकूलितम्।
(ग) ज्ञानम्।
(घ) ग्रन्थाः।

ब. पूर्णवाक्येन उत्तरत-

(क) छात्राः अवकाश-समयस्य सदुपयोगाय पुस्तकालये आगच्छन्ति।
(ख) पुस्तकालय - अध्यक्षः सहजः सरलश्च अस्ति।

स.प्रदत्त विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत -

(i) (क) विविधाः ।      
(ii)(ग) सहजः ।   
(iii)(ख) विविधाः ।

द.शीर्षकं- ज्ञानस्य कोषः - पुस्तकालयः।

                              💐💐💐

22 टिप्‍पणियां:

  1. इदं कार्यं सततं कुर्यात्

    जवाब देंहटाएं

अद्यतन-सूक्ति

  "सूर्यवत् उद्भासितुम् इच्छति चेत् तत् वत् तपेत् आद्यम्" अर्थात् (यदि आप) सूर्य के समान चमकना चाहते हैं तो सूर्य के समान तपना सीखिए।