Followers

शनिवार, 4 फ़रवरी 2023

अभ्यासप्रश्नपत्रं - १ (अपठित-अवबोधनम्)

 

अभ्यासप्रश्नपत्रानुसारम्

    कक्षा - नवमी दशमी च 

             खण्ड-क 

      (अपठित-अवबोधनम्)-(10 अङ्काः)

प्रश्न 1.अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।

सम्पूर्ण विश्वे भारतीया संस्कृति: अद्वितीया वर्तते। अन्येषां देशानां संस्कृतयः उत्पद्यन्ते कालगर्भे च विलीयन्ते, परम् अस्माकं संस्कृतिः अद्यापि मूलरूपे विराजिते भारतीया संस्कृति: विश्वस्य सर्वाभ्य: संस्कृतिभ्य: प्राचीनतमा। वर्णाश्रमव्यवस्था, पुरुषार्थचतुष्टयं,षोडशसंस्काराः, कर्मवादः, पुनर्जन्मवादः, सदाचारपालनं, त्याग: चैता: भारतीयसंस्कृतेः प्रमुखाः विशेषताः सन्ति। भारतीय - संस्कृतिरेव सा संस्कृति: या संपूर्णऽपि विश्वे भ्रातृत्व-भावनाम् उद्घोषयति । अतएवोच्यते-“वसुधैवकुटुंबकम्" । वैविध्यं भारतीयसंस्कृतेः महती विशेषता अस्ति। विविधेषु क्षेत्रेषु भाषायाः, भोजनस्य, वेशभूषायाः परंपरायाश्च वैभिन्नं दृश्यते, तथापि वयं सर्वे मिलित्वा भारतदेशस्य संततय: स्मः । एतदेव अस्ति “अनेकतायाम् एकता” इति। अतएव अस्माकं संस्कृतिः गौरवशालिनी वर्तते। वयं सर्वे संस्कृतौ गर्वमनुभवामः । अस्माकं संस्कृतिरेव देशस्य माहात्म्यं स्थापयति ।

अ. एकपदेन उत्तरत- 

1. भारतीया संस्कृतिः कीदृशी वर्तते ?
II. भारतीया संस्कृतिः विश्वे कां भावनाम् उद्घोषयति ?
III  का संस्कृति: सर्वासु संस्कृतिषु श्रेष्ठतमा वर्तते ?

ब. पूर्णवाक्येन उत्तरत –

1.  विश्वस्य सर्वाभ्य: संस्कृतिभ्य: प्राचीनतमा संस्कृति: का ?
II.   वयं कस्यां गर्वम् अनुभवामः ?
III.भारतीयसंस्कृतेः प्रमुखा: विशेषता: का: सन्ति ?

स. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 

द. यथानिर्देशम् उत्तरत-

(i).“युष्माकम्” इति पदस्य विपरीतार्थकं पदम् अनुच्छेदात् चित्वा लिखत -
(क) सर्वाभ्यः                   (ख) अस्माकं
(ग)श्रेष्ठतमा                      (घ) अद्वितीया
(ii). "एतदेव अस्ति अनेकतायाम् एकता”। अस्मिन् वाक्ये किम् अव्ययपदं प्रयुक्तम् ?
 (क) एव                           (ख) अनेकतायाम्
  (ग) एतत्                          (घ) एकता
(iii) “संसारस्य” इत्यर्थं किं पदम् अनुच्छेदे प्रयुक्तम् ?
(क) भारतदेशस्य                (ख) भोजनस्य
(ग) अन्येषां                       (घ) विश्वस्य
(iv) “भारतीया संस्कृतिः” अत्र विशेषणपदं किम्?
(क) अस्माकं                       (ख) भारतीया
(ग) संस्कृति:                        (घ) प्राचीनतमा

              उत्तराणि

अ.एकपदेन उत्तरत -
(l) अद्वितीया।
(ll) भ्रातृत्व-भावनाम्।
(lll) भारतीया।

ब. पूर्णवाक्येन उत्तरत –
1.भारतीया संस्कृतिः  विश्वस्य सर्वाभ्य: संस्कृतिभ्य: प्राचीनतमा   संस्कृति:। 
II. वयं  संस्कृतौ गर्वम् अनुभवामः ।
III.भारतीयसंस्कृतेः प्रमुखा: विशेषता:  वर्णाश्रमव्यवस्था, पुरुषार्थचतुष्टयं,षोडशसंस्काराः, कर्मवादः, पुनर्जन्मवादः, सदाचारपालनं, त्याग: च सन्ति ।

स.शीर्षकं- अद्वितीया भारतीया संस्कृतिः।

द. यथानिर्देशम् उत्तरत-
(i)   (ख) अस्माकं ।
(ii)  (क) एव ।
(iii) (घ) विश्वस्य।
(iv)  (ख) भारतीया।

                                💐💐💐

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अद्यतन-सूक्ति

  "सूर्यवत् उद्भासितुम् इच्छति चेत् तत् वत् तपेत् आद्यम्" अर्थात् (यदि आप) सूर्य के समान चमकना चाहते हैं तो सूर्य के समान तपना सीखिए।