Followers

रविवार, 5 फ़रवरी 2023

अभ्यासप्रश्नपत्रं - २(अपठित-अवबोधनम्)

     

     अभ्यासप्रश्नपत्रानुसारम्
    कक्षा - षष्ठी तःअष्टमी पर्यन्तं 
             खण्ड-क  

     (अपठित-अवबोधनम्)(8अङ्काः)

प्रश्न 1.अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।

छात्रस्य जीवने अनुशासनस्य अतीव महत्वं विद्यते। छात्रजीवनम् अनुशासितं भवति चेत् सकलानि कार्याणि कुशलतया पूर्णानि भवन्ति। विद्यालये तु अनुशासनम् अवश्यमेव परिपालनीयम्। अनुशासनाभावे छात्रः सफलतां प्राप्तुं न शक्नोति। अनुशासनहीनाः छात्राः अनुशासनाभावे बहुमूल्यं समयम् अमूल्यं ज्ञानं हितचिन्तकानि मित्राणि च सर्वं विनश्यति। छात्रजीवने स्वीकृतम् अनुशासनं समाजे सदा सर्वदा सम्मानितं स्थानं ददाति।

अ.एकपदेन उत्तरत -

(क) छात्रस्य जीवने कस्य अतीव महत्वं विद्यते?

(ख) विद्यालये किम् अवश्यमेव परिपालनीयम्?

(ग) अनुशासनाभावे छात्रः कां प्राप्तुं न शक्नोति?

(घ) छात्रजीवनम् अनुशासितं भवति चेत् सकलानि कार्याणि कथं पूर्णानि भवन्ति?

ब. पूर्णवाक्येन उत्तरत-

(क) छात्रजीवनम् अनुशासितं भवति चेत् कानि कुशलतया पूर्णानि भवन्ति?

(ख) अनुशासनहीनाः छात्राः अनुशासनाभावे कं विनश्यति ?

स.प्रदत्त विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत -

(i)' छात्रः सफलतां प्राप्तुं न शक्नोति ' इत्यस्मिन् वाक्ये कर्तृपदं किम्?

(क) छात्रः                      (ख) सफलताम्

(ग) शक्नोति                   (घ) प्राप्तुं 


(ii) मरणं इति पदस्य किं विपरीतार्थकं पदं गद्यांशे प्रयुक्तम्?

(क) तरणम्                     (ख) सफलम्

(ग) जीवनम्                    (घ) करणम्


(iii) 'विनश्यति'अत्र कः लकारः?

(क) लट्                           (ख) लोट् 

(ग) ऌट्                             (घ) लङ्

(iv) अधोलिखितशब्देषु आकारान्तस्त्रीलिङ्गशब्दः कः?

(क) छात्रः                          (ख)सफलता

(ग) अनुशासनम्                 (घ) वस्तु 

द. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।

               उत्तराणि

अ.एकपदेन उत्तरत -
(क)अनुशासनस्य।
(ख) अनुशासनम्।
(ग) सफलतां।
(घ) कुशलतया।

ब. पूर्णवाक्येन उत्तरत-

(क) छात्रजीवनम् अनुशासितं भवति चेत् सकलानि कार्याणि कुशलतया पूर्णानि भवन्ति।

(ख) अनुशासनहीनाः छात्राः अनुशासनाभावे बहुमूल्यं समयम् अमूल्यं ज्ञानं हितचिन्तकानि मित्राणि च सर्वं विनश्यति ।

स.प्रदत्त विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत -
(i)   (क) छात्रः।
(ii)  (ग) जीवनम्।
(iii) (क) लट् ।
(iv)  (ख) सफलता।

द. शीर्षकं - अनुशासनस्य अमूल्यं योगदानम्।
           
                                   💐💐💐

2 टिप्‍पणियां:

अद्यतन-सूक्ति

  "सूर्यवत् उद्भासितुम् इच्छति चेत् तत् वत् तपेत् आद्यम्" अर्थात् (यदि आप) सूर्य के समान चमकना चाहते हैं तो सूर्य के समान तपना सीखिए।