Followers

सोमवार, 6 फ़रवरी 2023

अभ्यासप्रश्नपत्रं - २(अपठित-अवबोधनम्)

 

अभ्यासप्रश्नपत्रानुसारम्

    कक्षा - नवमी दशमी च 

             खण्ड-क 

    (अपठित-अवबोधनम्)-(10 अङ्काः)

प्रश्न 1.अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।

शिक्षा मानव-विकासस्य परमं साधनम्। शिक्षा ज्ञानोदयेन नैतिकं चारित्रिकं च विकासं सम्पादयति। शिक्षा सांस्कृतिकीं दृष्टिम् उद्बोधयति। वर्तमान-शिक्षा-पद्धतौ बालकस्य सर्वाङ्गीण-विकासस्य परिकल्पना अस्ति। अधुना बालाः आधुनिक-विषयान् अपि अध्येतुं सम्प्रेरिताःदृश्यन्ते। यथा विज्ञानम्,गणितम्,भूगोलम्,इतिहासम्,अर्थशास्त्रम्,राजनीतिशास्त्रम्,संगीतम्,संगणकयन्त्रम् आदयः। वर्तमान-शिक्षा-पद्धतौ शिक्षिताः युवकाः युवत्यश्च कठिनं श्रमं कृत्वा स्व-स्व क्षेत्रे महत्वपूर्णं साफल्यं प्राप्तवन्तः।अतएव शिक्षा श्रमस्य महत्वमपि शिक्षयतश।शिक्षिताः युवकाः मानवीयगुणान् प्रति आकर्षितः भवन्ति। अस्माकं देशे शिक्षा प्राप्त्यै कोऽपि बालः कापि बाला वा अर्थाभावं न अनुभवेत् इति शासनं प्रयतेत।यतः शिक्षा न केवलं मानवकल्याणाय अपेक्षिता अपितु सा राष्ट्रगौरवाय अपि महत्वपूर्णा।


(अ) एकपदेन उत्तरत- 

(i) शिक्षा कस्य महत्त्वं शिक्षयति ?

(ii) मानव-विकासस्य परमं साधनं किम् ?

(iii) शिक्षा कीदृशीं दृष्टिम् उद्बोधयति ? 

आ) पूर्णवाक्येन उत्तरत- 

(i) शिक्षा कीदृशं विकासं सम्पादयति ?

(ii) शासनं किं प्रयतेत ?

(iii) वर्तमानशिक्षा-पद्धतौ बालकः कान् विषयान् अपि शिक्षेत?

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 

(ई) प्रदत्त विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत -

(i) 'अस्ति' इति क्रियापदस्य कर्तृपदं किम् ?

(क) परिकल्पना       (ख) बालकस्य    (ग) पद्धतौ

(ii) 'शिक्षिताः' इति विशेषणपदस्य विशेष्यपदं किम् प्रयुक्तम् ?

(क) प्रति                 (ख) युवका:        (ग) गुणान् 

(iii) 'उद्यमः' इत्यर्थे किं पर्यायपदम् अत्र प्रयुक्तम् ?

(क) कठिनं               (ख) साफल्यं        (ग) श्रमः 

(iv) 'सरलम्' इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम्?

(क) कठिनं                (ख) शासनम्        (ग) महत्वं 

                उत्तराणि 


(अ) एकपदेन उत्तरत -
   (i) श्रमस्य।
   (ii) शिक्षा।
  (iii) सांस्कृतिकीम्।

 (आ) पूर्णवाक्येन उत्तरत -
 (i)शिक्षा ज्ञानोदयेन नैतिकं चारित्रिकं च विकासं सम्पादयति।

 (ii)अस्माकं देशे शिक्षा प्राप्त्यै कोऽपि बालः कापि बाला वा अर्थाभावं न अनुभवेत् इति शासनं प्रयतेत।

 (iii) वर्तमान-शिक्षा-पद्धतौ बालकः विज्ञानम्, गणितम्, भूगोलम्, इतिहासम्, अर्थशास्त्रम्, राजनीतिशास्त्रम्,
संगीतम्, संगणकयन्त्रम् आदयः विषयान् अपि शिक्षेत।

(इ) शीर्षकं - मानवजीवने शिक्षायाः अनुपम योगदानम्।

(ई)प्रदत्त विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत -
 (i) (क) परिकल्पना ।
(ii) (ख) युवका: ।
(iii) (ग) श्रमः ।
(iv) (क) कठिनम् ।
            

                        💐💐💐



कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अद्यतन-सूक्ति

  "सूर्यवत् उद्भासितुम् इच्छति चेत् तत् वत् तपेत् आद्यम्" अर्थात् (यदि आप) सूर्य के समान चमकना चाहते हैं तो सूर्य के समान तपना सीखिए।