अभ्यासप्रश्नपत्रानुसारम्
कक्षा - नवमी दशमी च
खण्ड-क
(अपठित-अवबोधनम्)-(10 अङ्काः)
प्रश्न 1.अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।
शिक्षा मानव-विकासस्य परमं साधनम्। शिक्षा ज्ञानोदयेन नैतिकं चारित्रिकं च विकासं सम्पादयति। शिक्षा सांस्कृतिकीं दृष्टिम् उद्बोधयति। वर्तमान-शिक्षा-पद्धतौ बालकस्य सर्वाङ्गीण-विकासस्य परिकल्पना अस्ति। अधुना बालाः आधुनिक-विषयान् अपि अध्येतुं सम्प्रेरिताःदृश्यन्ते। यथा विज्ञानम्,गणितम्,भूगोलम्,इतिहासम्,अर्थशास्त्रम्,राजनीतिशास्त्रम्,संगीतम्,संगणकयन्त्रम् आदयः। वर्तमान-शिक्षा-पद्धतौ शिक्षिताः युवकाः युवत्यश्च कठिनं श्रमं कृत्वा स्व-स्व क्षेत्रे महत्वपूर्णं साफल्यं प्राप्तवन्तः।अतएव शिक्षा श्रमस्य महत्वमपि शिक्षयतश।शिक्षिताः युवकाः मानवीयगुणान् प्रति आकर्षितः भवन्ति। अस्माकं देशे शिक्षा प्राप्त्यै कोऽपि बालः कापि बाला वा अर्थाभावं न अनुभवेत् इति शासनं प्रयतेत।यतः शिक्षा न केवलं मानवकल्याणाय अपेक्षिता अपितु सा राष्ट्रगौरवाय अपि महत्वपूर्णा।
(अ) एकपदेन उत्तरत-
(i) शिक्षा कस्य महत्त्वं शिक्षयति ?
(ii) मानव-विकासस्य परमं साधनं किम् ?
(iii) शिक्षा कीदृशीं दृष्टिम् उद्बोधयति ?
आ) पूर्णवाक्येन उत्तरत-
(i) शिक्षा कीदृशं विकासं सम्पादयति ?
(ii) शासनं किं प्रयतेत ?
(iii) वर्तमानशिक्षा-पद्धतौ बालकः कान् विषयान् अपि शिक्षेत?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
(ई) प्रदत्त विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत -
(i) 'अस्ति' इति क्रियापदस्य कर्तृपदं किम् ?
(क) परिकल्पना (ख) बालकस्य (ग) पद्धतौ
(ii) 'शिक्षिताः' इति विशेषणपदस्य विशेष्यपदं किम् प्रयुक्तम् ?
(क) प्रति (ख) युवका: (ग) गुणान्
(iii) 'उद्यमः' इत्यर्थे किं पर्यायपदम् अत्र प्रयुक्तम् ?
(क) कठिनं (ख) साफल्यं (ग) श्रमः
(iv) 'सरलम्' इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम्?
(क) कठिनं (ख) शासनम् (ग) महत्वं