श्रीसंकष्टनाशन गणेशस्तोत्रम्
नारद उवाच –
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।
भक्तावासं स्मरेन्नित्यम् आयुः कामार्थसिद्धये॥१॥
प्रथमं वक्रतुण्डञ्च एकदन्तं द्वितीयकम्।
तृतीयकं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम्॥२॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्॥३॥
नवमं भालचन्द्रं च दशमं तु विनायकम्।
एकादशं गणपतिं द्वादशं तु गजाननम्॥४ll
द्वादशैतानि नामानि त्रिसन्धयं यः पठेन्नरः।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो॥५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्॥६॥
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्।
संवतसरेण सिद्धिं च लभते नात्र संशयः।७॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः॥८॥
इतिश्रीनारदपुराणे संकष्टनाशनगणेशस्तोत्रं सम्पूर्णम्।।
💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐
Om ganeshay namah🌹🙏🏻
जवाब देंहटाएंOutstanding😊
जवाब देंहटाएंExcellent
जवाब देंहटाएंGood
जवाब देंहटाएं