खण्ड-ख
रचनात्मकं कार्यम् (15 अङ्काः)
पत्र-लेखनम्
2. भवत: नाम गौतमः अस्ति । भवान् नवमी कक्षायां पठति । अद्य भवतः गृहे अनेके अतिथयः आगामिष्यन्ति । अतः तेषां व्यवस्थायै भवान् विद्यालयात् एकस्यदिवसस्य अवकाशं प्राप्तुम् इच्छति । एतदर्थं प्रधानाचार्यं प्रति प्रार्थना-पत्रं लिखत ।
सेवायाम्
श्रीमान् प्रधानाचार्य- महोदयः
राजकीय सर्वोदय बाल विद्यालयः,
भोलानाथनगरम्, शाहदरा।
दिल्ली -110032
विषयः - एकस्य दिनस्य अवकाशार्थं प्रार्थना-पत्रम् |
महोदय
सविनयं निवेदयामि यत् अहं गौतमः नवमी कक्षाया: 'ब' वर्गस्य छात्र: अस्मि। अद्य मम गृहे अनेके अतिथयः आगमिष्यन्ति। अतः तेषां व्यवस्थायै मां विद्यालयात् एकस्य दिनस्य अवकाशं प्राप्तुं इच्छामि।
एतदर्थम् अहं भवन्तं निवेदयामि यत् एकस्य दिनस्य अवकाशं प्रदाय माम् अनुगृह्णन्तु |
भवदीयः शिष्यः
गौतमः
कक्षा -नवमी 'ब'
अनुक्रमाङ्कः-17
दिनाङ्कः- 07/02/2023