खण्ड-ख
रचनात्मकं कार्यम् (15 अङ्काः)
पत्र-लेखनम्
प्रश्न -2. भवत्याः नाम आराध्या अस्ति । भवती नवम्या: कक्ष्यायाः छात्रा अस्ति ।अकस्मात् एव भवती ज्वरेण पीड़िता जाता। विद्यालयं गन्तुम् असमर्था अस्ति ।चिकित्सक: भवतीं विश्रामं कर्तुं उक्तवान्, अतः त्रयाणां दिवसानाम् अवकाशं प्राप्तुं प्रधानाचार्यं प्रति प्रार्थनापत्रम् लिखत ।
सेवायाम्
श्रीमान् प्रधानाचार्य- महोदयः
राजकीय सर्वोदय कन्या विद्यालयः,
भोलानाथनगरम्, शाहदरा।
दिल्ली -110032
विषयः - त्रयाणां दिवसानाम् अवकाशार्थं प्रार्थना-पत्रम् |
महोदय
सविनयं निवेदयामि यत् अहं आराध्या नवमी कक्षाया: 'ब' वर्गस्य छात्रा अस्मि। अकस्मात् एव अहं ज्वरेण पीड़िता जाता। विद्यालयं आगन्तुम् असमर्था अस्मि ।चिकित्सक: मां विश्रामं कर्तुं उक्तवान् ।एतदर्थम् अहं भवन्तं निवेदयामि यत् त्रयाणां दिवसानाम् अवकाशं प्रदाय माम् अनुगृह्णन्तु |
भवदीया शिष्या
आराध्या
कक्षा -नवमी 'ब'
अनुक्रमाङ्कः-17
दिनाङ्कः- 07/02/2023