Followers

शनिवार, 18 फ़रवरी 2023

अभ्यासप्रश्न-पत्रं -६ (कक्षा-षष्ठी )

 


6. उचितकर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

अ).................... पुस्तकं पठन्ति। (बालिका/बालिकाः)

आ).....…..…..... फलं खादति। (सः/ते)

इ) ..................विहरतः। (चटकाः/ चटके)

ई)...................चरतः। (अजा/अजे)


7.उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- 

यथा - देवः          देवौ            देवाः 

      .....(1)....    कपोतौ       .....(2)....

        वृषभः        ...(3)....      .....(4)....         

         काकः       .....(5)....       काकाः


8.उचित धातुरूपाणि चित्वा रिक्तस्थानानि पूरयत-

अ ) लेखिका पत्रं ............. ।(लिखति/लिखन्ति)

आ) नौका .................. ।(चलन्ति/चलति)

इ ) मक्षिके  .............. ।(उत्पतति/उत्पततः)

ई ) अश्वः ................ ।(धावति/धावन्ति)

उ) छात्रौ ............…. । (हसति/हसतः)

             उत्तराणि 

6.(अ)   बालिकाः (आ) सः  (इ)  चटके   (ई)  अजे ।

7.(1)   कपोतः  (2)  कपोताः  (3)  वृषभौ (4) वृषभाः।

8.(अ) लिखति   (आ) चलति  (इ)   उत्पततः  (ई)  धावति            (उ)हसतः।




शनिवार, 11 फ़रवरी 2023

अभ्यासप्रश्नपत्रं -७ (कक्षा-नवमी दशमी च)

 प्रश्न 4. अधोलिखितानां वाक्यानां संस्कृतेन अनुवादं कुरुत ।

1. मोर वन में नाचता है। The peacock dance in the forest.

2. हर्ष प्रतिदिन विद्यालय आएगा। Harsh will come school Daily.

3. रमा कलम से लिखती है। Rama writes with pen.

4. यह शिष्य आज्ञाकारी है । This pupil is obedient.

5. बहन रक्षा सूत्र बांधती है। Sister ties rakhi.

6. सदा स्वाध्याय करो। Always study yourself.

(ख)1. राघव बाजार जाता है Raghav goes to the market.

2. उद्यान में लोग घूमते हैं । People walk in the park.

3. सीता गाना गाती है । Sita sings a song.

4. हिमालय से गंगा निकलती है । The Ganga originates from the

Himalayas.

5. गुरु को नमस्कार है। Salutations to the guru.

6. बालक दंड से डरता है । The child is afraid of punishment.

7. मुझे लड्डू अच्छे लगते हैं। I like laddoos.

                उत्तराणि 

1. मयूरः वने नृत्यति।
2. हर्षः प्रतिदिनं विद्यालयं गमिष्यति।
3.रमा कलमेन लिखति।
4.अयं शिष्यः आज्ञाकारी अस्ति।
5.भगिनी रक्षासूत्रस्य बन्धनं करोति।
6.सदा स्वाध्यायं कुरु।

(ख)
1. राघवः विपणीं गच्छति।
2.उद्याने जनाः भ्रमन्ति।
3.सीता गीतं गायति।
4.हिमालयात् गङ्गा निर्गच्छति।
5.गुरवे नमः । 
6. बालकःदण्डात् विभेति।
7.मह्यं मोदकं रोचते।

अभ्यासप्रश्नपत्रं -६ (कक्षा-नवमी दशमी च)

              अथवा 

मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः लिखत।

            "कक्ष्याकक्षम्"


                मञ्जूषा

छात्रा:, श्यामपट्टे, पाठयति, पाठं, घण्टावादनम्, विविध- विषयान्, उत्साहेन,पुस्तकानि, अध्यापक: चित्रफलकानि, उत्पीठिका:।

          "कक्ष्याकक्षम्"


(क) अध्यापकः श्यामपट्टे विविधविषयान् पाठयति।
(ख)  छात्राः उत्साहेन पाठं पठन्ति।
(ग)  उत्पीठिकायां पुस्तकानि सन्ति।
(घ)  यदा कालांशस्य समाप्ति भवति तदा घण्टावादनं भवति।
(ङ) कक्ष्याकक्षे अनेकानि चित्रफलकानि अपि सन्ति।

अभ्यासप्रश्न-पत्रं -५ (कक्षा-षष्ठी तः अष्टमी पर्यन्तं )

       खण्ड: 'ग'
 अनुप्रयुक्त व्याकरणम्
       (18 अङ्काः)

प्रश्न 4.वर्णसंयोजनेन पदं लिखत-
यथा - व्+ऋ+थ्+आ = वृथा
(क) प्+उ+स्+त्+अ+क्+अ+म् =
(ख) च्+अ+ट्+अ+क्+आ =
(ग) क्+ऋ+ष्+अ+क्+आः 
(घ) उ+द्+य्+आ+न्+अ+म् =
(ङ) स्+ओ+प्+आ+न्+अ+म् =

        उत्तराणि 

(क)पुस्तकम्(ख)चटका

(ग)कृषकाः(घ)उद्यानम्

(ङ)सोपानम्।

प्रश्न 4.उदाहरणं  दृष्ट्वा  वर्णविच्छेदं लिखत-  
यथा - बालकः =ब्+आ+ल्+अ+क्+अः 

(क) क्रीडनकम् =
(ख) दोला
(ग) अश्वः =
(घ) मृगाः =
(ङ)एतौ
       
 उत्तराणि

(क) क्+र्+ई+ड्+अ+न्+अ+क्+अ+म्(ख) द्+ओ+ल्+आ।
(ग)अ+श्+व्+अः।
(घ)म्+ऋ+ग्+आः।
(ङ)ए+त्+औ।

शुक्रवार, 10 फ़रवरी 2023

अभ्यासप्रश्न-पत्रं -४(कक्षा-षष्ठी )

                अथवा 

मञ्जूषातः पदानि चित्वा अधोलिखितं वार्तालापं पूरयत-

               मञ्जूषा 

अहम् , कक्षायाम् , मम , भवतः , पितुः 

सुरेशः - मम नाम सुरेशः। (i)................. नाम किम्?

दीपकः -(ii)............. नाम दीपकः। भवतः  (iii)............... नाम किम्?

सुरेशः - मम पितुः नाम श्रीमान् सुरेन्द्रः। भवान् कस्यां (iv)............... पठति?

दीपकः - (v).................... षष्ठी -कक्षायां पठामि।

              उत्तराणि 

 (i)  भवतः (ii)   मम (iii) पितुः (iv)  कक्षायाम् (v)   अहम् ।

प्रश्न 3.उचितसर्वनामपदेन वाक्यं योजयत -
(क)सा              धावन्ति 
(ख) ताः              वदति 
(ग)ते                  पठति 
(घ) सः               कूजतः

              उत्तराणि 


(क)सा                वदति 
(ख) ताः              धावन्ति 
(ग)ते                   कूजतः 
(घ) सः                 पठति ।

गुरुवार, 9 फ़रवरी 2023

अभ्यासप्रश्नपत्रं -५ (कक्षा-नवमी दशमी च)

 

            खण्ड-ख

रचनात्मकं कार्यम् (15 अङ्काः)

           चित्रवर्णनम्    

प्रश्न -3.अध: प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहाय्येन पञ्चवाक्यानि  संस्कृतेन लिखत ।




             मञ्जूषा

पुस्तकानि,पुस्तकालय:,अनेकानि,नाना-शास्त्रसम्बन्धितानि,

उत्पीठिका,भित्तौ,चित्रद्वयम्,आसन्दिका,पुष्पदानम्,

काष्ठमञ्जूषा:,सन्ति।

            उत्तराणि 

(क) एतत् चित्रं पुस्तकालयस्य अस्ति।

(ख) अत्र नाना-शास्त्रसम्बन्धितानि अनेकानि पुस्तकानि सन्ति।

(ग) भित्तौ चित्रद्वयम् अपि स्तः।

(घ) चित्रे एका आसन्दिका दृश्यते।

(ङ) काष्ठमञ्जूषायां  एकं पुष्पदानम् वर्तते।



               💐💐💐



बुधवार, 8 फ़रवरी 2023

अभ्यासप्रश्नपत्रं -४ (कक्षा-दशमी)

 

                खण्ड-ख

रचनात्मकं कार्यम् (15 अङ्काः)
           पत्र-लेखनम् 

प्रश्न 2. मित्रं प्रति लिखितम् अधोलिखितं पत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः लिखत।

महाराज-संस्कृत-विद्यालय
छात्रावास:
तिथि: ………...

प्रिय मित्र  (i)............
सस्नेहं नमस्ते ।
अत्र सर्वं कुशलम् । भवान् अपि कुशली इति मन्ये। गतसप्ताहे अस्माकं (ii)............. संस्कृत -सम्भाषण-शिविरम् (iii)...............
आसीत्।दशदिनानि यावत् वयं संस्कृत -सम्भाषणस्य (iv)...............
अकुर्मः।तत्र लघुनाटिकायाः (v)............... अपि अभवत्। अहं तु विदूषकस्य (vi)................... कृतवान्,सर्वे जनाः हसित्वा (vii)............... अकुर्वन्। अहम् इदानीम् सर्वदा संस्कृतेन एव 
(viii).................. । भवान् अपि संस्कृतेन सम्भाषणस्य (ix)......….........करोतु।पितरौ (x)...................प्रणामाञ्जलिं निवेदयतु।

              मञ्जूषा 

अभ्यासम् ,अभिनयम् , विद्यालये , प्रति , सौरभ ! , अभिनयः, करतलध्वनिम् , आयोजितम् , वदामि, अभ्यासम् ।

               उत्तराणि 


i      सौरभ !
ii     विद्यालये 
iii    आयोजितम्
iv    अभ्यासम्
v      अभिनयम्
vi     अभिनयः
vii     करतलध्वनिम् 
viii    वदामि 
ix      अभ्यासम् 
x        प्रति ।

मंगलवार, 7 फ़रवरी 2023

अभ्यासप्रश्नपत्रं -४ (कक्षा-सप्तमी अष्टमी च)

 

               खण्ड-ख

रचनात्मकं कार्यम् (12 अङ्काः)

प्रश्न 2. अध: प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया  चत्वारि  वाक्यानि रचयत -

          

                                  मञ्जूषा
पर्यावरणम्, दूषितं, जलम्, वृक्षाः, मत्स्याः, पृथिवी, वनं, कर्तयन्ति, जनाः, भवति, स्वच्छवायुः,मरन्ति, धूम्रम्, औद्योगिकस्थलानि वाहनानि

              चित्रवर्णनम्

1.जनाः  वृक्षान् कर्तयन्ति।
2.औद्योगिकस्थलानि वाहनानि  च धूम्रं त्यजन्ति।
3. स्वच्छवायुः दूषितं भवति।
4.दूषितं जलं पीत्वा मत्स्याः मरन्ति।

अथवा


'मम परिवारः' इति विषयमधिकृत्य पञ्च वाक्यानि लिखत ।
1.मम परिवारे चत्वारः सदस्याः सन्ति।
2.मम माता आदर्श-गृहिणी अस्ति।
3.मम पिता आदर्श-शिक्षकः अस्ति। 
4.मम भगिनी षष्ठी-कक्षायां पठति।


अभ्यासप्रश्नपत्रं -३ (कक्षा-दशमी)


              खण्ड-ख

रचनात्मकं कार्यम् (15 अङ्काः)
           पत्र-लेखनम् 


प्रश्न 2. पितरं प्रति लिखितम् अधोलिखितं पत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः लिखत।

ताराचन्द-छात्रावासः

दिनाङ्कः..............

पूज्या: (ii)..................

सादरं प्रणामाः।

अत्र कुशलं तत्रास्तु। इदं विज्ञाय भवान् अतिप्रसन्नः भविष्यति यद् गतदिवसे अन्तर्विद्यालयीयभाषणप्रतिस्पर्धायां मया (iii)............... स्थानं लब्धम्। क्रीडादिवसे (iv)................अहमेव प्रथमः आसम्। अस्मिन् वर्षे वार्षिकोत्सवे अहं नाट्याभिनयं (v)...................। अयं वार्षिकोत्सवः आगामी सोमवासरे (vi)................।विद्यालयस्य पक्षतः ह्य एव (vii)..................... प्रेषितम्। अहमपि सूचयामि, भवान् अवश्यम् आगच्छतु। मम (ix)................... भविष्यति।

भवतः आज्ञाकारी पुत्रः,

(x)........................।


                 मञ्जूषा

निमन्त्रणपत्रम्, धावनप्रतियोगितायाम्, पीयूषः, उत्साहवर्धनम्, भवन्तम्, प्रयागराजतः,प्रथमम्, करिष्यामि, पितृमहोदयाः, आयोजयिष्यते।

                                              उत्तराणि

(i) प्रयागराजत:
(ii) पितृमहोदया:
(iii) प्रथमम्
(iv) धावनप्रतियोगितायाम्
(v) करिष्यामि
(vi) आयोजयिष्यते
(vii) निमन्त्रणपत्रम्
(viii) भवन्तम्
(ix) उत्साहवर्धनम्
(x) पीयूष: ।


अभ्यासप्रश्नपत्रं -३ (कक्षा-सप्तमी अष्टमी च)

            खण्ड-ख

रचनात्मकं कार्यम् (12 अङ्काः)

प्रश्न 2. अध: प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया  चत्वारि  वाक्यानि रचयत -

             


                         मञ्जूषा
सूर्योदय:, उड्डयन्ति, पर्वता:, खगा:, पुष्पाणि,
नदी, प्रवहति, भवति, वृक्ष:

           चित्रवर्णनम्

1.सूर्योदयः भवति।
2.खगाःउड्डयन्ति।
3.नदी प्रवहति।
4.चित्रे  पर्वताः वृक्षाः पुष्पाणि च सन्ति।

                 अथवा

'मम परिचय' इति विषयमधिकृत्य पञ्च वाक्यानि लिखत ।

1.मम नाम  सुकन्या अस्ति।
2.मम मातुः नाम श्रीमती रमा अस्ति।
3.मम पितुः नाम श्रीमान् रमनः अस्ति।
4.अहं सप्तमी-कक्षायां पठामि।



 

अभ्यासप्रश्नपत्रं -४ (कक्षा-नवमी)

           खण्ड-ख

रचनात्मकं कार्यम् (15 अङ्काः)

           पत्र-लेखनम् 


प्रश्न -2. भवत्याः नाम आराध्या अस्ति । भवती नवम्या: कक्ष्यायाः छात्रा अस्ति ।अकस्मात् एव भवती ज्वरेण पीड़िता जाता। विद्यालयं गन्तुम् असमर्था अस्ति ।चिकित्सक: भवतीं विश्रामं कर्तुं उक्तवान्, अतः त्रयाणां दिवसानाम् अवकाशं प्राप्तुं प्रधानाचार्यं प्रति प्रार्थनापत्रम् लिखत ।


सेवायाम्

श्रीमान् प्रधानाचार्य- महोदयः
राजकीय सर्वोदय कन्या विद्यालयः,
भोलानाथनगरम्, शाहदरा।
दिल्ली -110032

विषयः -   त्रयाणां दिवसानाम्  अवकाशार्थं प्रार्थना-पत्रम् |

महोदय
सविनयं निवेदयामि यत् अहं आराध्या नवमी कक्षाया: 'ब' वर्गस्य छात्रा अस्मि। अकस्मात् एव अहं ज्वरेण पीड़िता जाता। विद्यालयं आगन्तुम् असमर्था अस्मि ।चिकित्सक: मां विश्रामं कर्तुं उक्तवान् ।एतदर्थम् अहं भवन्तं निवेदयामि यत् त्रयाणां दिवसानाम् अवकाशं  प्रदाय माम् अनुगृह्णन्तु |

भवदीया शिष्या
आराध्या 
कक्षा -नवमी 'ब'
अनुक्रमाङ्कः-17
दिनाङ्कः- 07/02/2023


 


अभ्यासप्रश्नपत्रं -३(कक्षा -नवमी)

 

 खण्ड-ख

रचनात्मकं कार्यम् (15 अङ्काः)

          पत्र-लेखनम्

2. भवत: नाम गौतमः अस्ति । भवान् नवमी कक्षायां पठति । अद्य भवतः गृहे अनेके अतिथयः आगामिष्यन्ति । अतः तेषां व्यवस्थायै भवान् विद्यालयात् एकस्यदिवसस्य अवकाशं प्राप्तुम् इच्छति । एतदर्थं  प्रधानाचार्यं प्रति प्रार्थना-पत्रं लिखत ।

सेवायाम्

श्रीमान् प्रधानाचार्य- महोदयः
राजकीय सर्वोदय बाल विद्यालयः,
भोलानाथनगरम्, शाहदरा।
दिल्ली -110032

विषयः - एकस्य दिनस्य अवकाशार्थं प्रार्थना-पत्रम् |

महोदय
सविनयं निवेदयामि यत् अहं गौतमः नवमी कक्षाया: 'ब' वर्गस्य छात्र: अस्मि। अद्य मम गृहे अनेके अतिथयः आगमिष्यन्ति। अतः तेषां व्यवस्थायै मां विद्यालयात् एकस्य दिनस्य अवकाशं प्राप्तुं इच्छामि।
एतदर्थम् अहं भवन्तं निवेदयामि यत् एकस्य दिनस्य अवकाशं प्रदाय माम् अनुगृह्णन्तु |

भवदीयः शिष्यः
गौतमः
कक्षा -नवमी 'ब'
अनुक्रमाङ्कः-17
दिनाङ्कः-  07/02/2023


 

सोमवार, 6 फ़रवरी 2023

अभ्यासप्रश्नपत्रं -३(कक्षा-षष्ठी )


 

           खण्ड-ख

रचनात्मकं कार्यम् (12 अङ्काः)

प्रश्न 2. अध: प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया वाक्यानि पूरयत-

                मञ्जूषा

            बुक्कति, मयूरः, धावन्ति, भ्रमतः, पठतः





1. गजौ ..................।         


  


2.बालकाः  .................।

                   

                               


3. ................ नृत्यति।


                           

4.  बालकौ  .........................।

                               

5.  कुक्कुरः  .............................।


                 उत्तराणि  

1. गजौ भ्रमतः।
2.बालकाः धावन्ति।
3.मयूरः नृत्यति।
4.बालकौ पठतः।
5.कुक्कुरः बुक्कति।

अभ्यासप्रश्नपत्रं - २(अपठित-अवबोधनम्)

 

अभ्यासप्रश्नपत्रानुसारम्

    कक्षा - नवमी दशमी च 

             खण्ड-क 

    (अपठित-अवबोधनम्)-(10 अङ्काः)

प्रश्न 1.अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।

शिक्षा मानव-विकासस्य परमं साधनम्। शिक्षा ज्ञानोदयेन नैतिकं चारित्रिकं च विकासं सम्पादयति। शिक्षा सांस्कृतिकीं दृष्टिम् उद्बोधयति। वर्तमान-शिक्षा-पद्धतौ बालकस्य सर्वाङ्गीण-विकासस्य परिकल्पना अस्ति। अधुना बालाः आधुनिक-विषयान् अपि अध्येतुं सम्प्रेरिताःदृश्यन्ते। यथा विज्ञानम्,गणितम्,भूगोलम्,इतिहासम्,अर्थशास्त्रम्,राजनीतिशास्त्रम्,संगीतम्,संगणकयन्त्रम् आदयः। वर्तमान-शिक्षा-पद्धतौ शिक्षिताः युवकाः युवत्यश्च कठिनं श्रमं कृत्वा स्व-स्व क्षेत्रे महत्वपूर्णं साफल्यं प्राप्तवन्तः।अतएव शिक्षा श्रमस्य महत्वमपि शिक्षयतश।शिक्षिताः युवकाः मानवीयगुणान् प्रति आकर्षितः भवन्ति। अस्माकं देशे शिक्षा प्राप्त्यै कोऽपि बालः कापि बाला वा अर्थाभावं न अनुभवेत् इति शासनं प्रयतेत।यतः शिक्षा न केवलं मानवकल्याणाय अपेक्षिता अपितु सा राष्ट्रगौरवाय अपि महत्वपूर्णा।


(अ) एकपदेन उत्तरत- 

(i) शिक्षा कस्य महत्त्वं शिक्षयति ?

(ii) मानव-विकासस्य परमं साधनं किम् ?

(iii) शिक्षा कीदृशीं दृष्टिम् उद्बोधयति ? 

आ) पूर्णवाक्येन उत्तरत- 

(i) शिक्षा कीदृशं विकासं सम्पादयति ?

(ii) शासनं किं प्रयतेत ?

(iii) वर्तमानशिक्षा-पद्धतौ बालकः कान् विषयान् अपि शिक्षेत?

(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 

(ई) प्रदत्त विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत -

(i) 'अस्ति' इति क्रियापदस्य कर्तृपदं किम् ?

(क) परिकल्पना       (ख) बालकस्य    (ग) पद्धतौ

(ii) 'शिक्षिताः' इति विशेषणपदस्य विशेष्यपदं किम् प्रयुक्तम् ?

(क) प्रति                 (ख) युवका:        (ग) गुणान् 

(iii) 'उद्यमः' इत्यर्थे किं पर्यायपदम् अत्र प्रयुक्तम् ?

(क) कठिनं               (ख) साफल्यं        (ग) श्रमः 

(iv) 'सरलम्' इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम्?

(क) कठिनं                (ख) शासनम्        (ग) महत्वं 

                उत्तराणि 


(अ) एकपदेन उत्तरत -
   (i) श्रमस्य।
   (ii) शिक्षा।
  (iii) सांस्कृतिकीम्।

 (आ) पूर्णवाक्येन उत्तरत -
 (i)शिक्षा ज्ञानोदयेन नैतिकं चारित्रिकं च विकासं सम्पादयति।

 (ii)अस्माकं देशे शिक्षा प्राप्त्यै कोऽपि बालः कापि बाला वा अर्थाभावं न अनुभवेत् इति शासनं प्रयतेत।

 (iii) वर्तमान-शिक्षा-पद्धतौ बालकः विज्ञानम्, गणितम्, भूगोलम्, इतिहासम्, अर्थशास्त्रम्, राजनीतिशास्त्रम्,
संगीतम्, संगणकयन्त्रम् आदयः विषयान् अपि शिक्षेत।

(इ) शीर्षकं - मानवजीवने शिक्षायाः अनुपम योगदानम्।

(ई)प्रदत्त विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत -
 (i) (क) परिकल्पना ।
(ii) (ख) युवका: ।
(iii) (ग) श्रमः ।
(iv) (क) कठिनम् ।
            

                        💐💐💐



रविवार, 5 फ़रवरी 2023

अभ्यासप्रश्नपत्रं - २(अपठित-अवबोधनम्)

     

     अभ्यासप्रश्नपत्रानुसारम्
    कक्षा - षष्ठी तःअष्टमी पर्यन्तं 
             खण्ड-क  

     (अपठित-अवबोधनम्)(8अङ्काः)

प्रश्न 1.अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।

छात्रस्य जीवने अनुशासनस्य अतीव महत्वं विद्यते। छात्रजीवनम् अनुशासितं भवति चेत् सकलानि कार्याणि कुशलतया पूर्णानि भवन्ति। विद्यालये तु अनुशासनम् अवश्यमेव परिपालनीयम्। अनुशासनाभावे छात्रः सफलतां प्राप्तुं न शक्नोति। अनुशासनहीनाः छात्राः अनुशासनाभावे बहुमूल्यं समयम् अमूल्यं ज्ञानं हितचिन्तकानि मित्राणि च सर्वं विनश्यति। छात्रजीवने स्वीकृतम् अनुशासनं समाजे सदा सर्वदा सम्मानितं स्थानं ददाति।

अ.एकपदेन उत्तरत -

(क) छात्रस्य जीवने कस्य अतीव महत्वं विद्यते?

(ख) विद्यालये किम् अवश्यमेव परिपालनीयम्?

(ग) अनुशासनाभावे छात्रः कां प्राप्तुं न शक्नोति?

(घ) छात्रजीवनम् अनुशासितं भवति चेत् सकलानि कार्याणि कथं पूर्णानि भवन्ति?

ब. पूर्णवाक्येन उत्तरत-

(क) छात्रजीवनम् अनुशासितं भवति चेत् कानि कुशलतया पूर्णानि भवन्ति?

(ख) अनुशासनहीनाः छात्राः अनुशासनाभावे कं विनश्यति ?

स.प्रदत्त विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत -

(i)' छात्रः सफलतां प्राप्तुं न शक्नोति ' इत्यस्मिन् वाक्ये कर्तृपदं किम्?

(क) छात्रः                      (ख) सफलताम्

(ग) शक्नोति                   (घ) प्राप्तुं 


(ii) मरणं इति पदस्य किं विपरीतार्थकं पदं गद्यांशे प्रयुक्तम्?

(क) तरणम्                     (ख) सफलम्

(ग) जीवनम्                    (घ) करणम्


(iii) 'विनश्यति'अत्र कः लकारः?

(क) लट्                           (ख) लोट् 

(ग) ऌट्                             (घ) लङ्

(iv) अधोलिखितशब्देषु आकारान्तस्त्रीलिङ्गशब्दः कः?

(क) छात्रः                          (ख)सफलता

(ग) अनुशासनम्                 (घ) वस्तु 

द. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।

               उत्तराणि

अ.एकपदेन उत्तरत -
(क)अनुशासनस्य।
(ख) अनुशासनम्।
(ग) सफलतां।
(घ) कुशलतया।

ब. पूर्णवाक्येन उत्तरत-

(क) छात्रजीवनम् अनुशासितं भवति चेत् सकलानि कार्याणि कुशलतया पूर्णानि भवन्ति।

(ख) अनुशासनहीनाः छात्राः अनुशासनाभावे बहुमूल्यं समयम् अमूल्यं ज्ञानं हितचिन्तकानि मित्राणि च सर्वं विनश्यति ।

स.प्रदत्त विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत -
(i)   (क) छात्रः।
(ii)  (ग) जीवनम्।
(iii) (क) लट् ।
(iv)  (ख) सफलता।

द. शीर्षकं - अनुशासनस्य अमूल्यं योगदानम्।
           
                                   💐💐💐

शनिवार, 4 फ़रवरी 2023

अभ्यासप्रश्नपत्रं - १ (अपठित-अवबोधनम्)

 

अभ्यासप्रश्नपत्रानुसारम्

    कक्षा - नवमी दशमी च 

             खण्ड-क 

      (अपठित-अवबोधनम्)-(10 अङ्काः)

प्रश्न 1.अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।

सम्पूर्ण विश्वे भारतीया संस्कृति: अद्वितीया वर्तते। अन्येषां देशानां संस्कृतयः उत्पद्यन्ते कालगर्भे च विलीयन्ते, परम् अस्माकं संस्कृतिः अद्यापि मूलरूपे विराजिते भारतीया संस्कृति: विश्वस्य सर्वाभ्य: संस्कृतिभ्य: प्राचीनतमा। वर्णाश्रमव्यवस्था, पुरुषार्थचतुष्टयं,षोडशसंस्काराः, कर्मवादः, पुनर्जन्मवादः, सदाचारपालनं, त्याग: चैता: भारतीयसंस्कृतेः प्रमुखाः विशेषताः सन्ति। भारतीय - संस्कृतिरेव सा संस्कृति: या संपूर्णऽपि विश्वे भ्रातृत्व-भावनाम् उद्घोषयति । अतएवोच्यते-“वसुधैवकुटुंबकम्" । वैविध्यं भारतीयसंस्कृतेः महती विशेषता अस्ति। विविधेषु क्षेत्रेषु भाषायाः, भोजनस्य, वेशभूषायाः परंपरायाश्च वैभिन्नं दृश्यते, तथापि वयं सर्वे मिलित्वा भारतदेशस्य संततय: स्मः । एतदेव अस्ति “अनेकतायाम् एकता” इति। अतएव अस्माकं संस्कृतिः गौरवशालिनी वर्तते। वयं सर्वे संस्कृतौ गर्वमनुभवामः । अस्माकं संस्कृतिरेव देशस्य माहात्म्यं स्थापयति ।

अ. एकपदेन उत्तरत- 

1. भारतीया संस्कृतिः कीदृशी वर्तते ?
II. भारतीया संस्कृतिः विश्वे कां भावनाम् उद्घोषयति ?
III  का संस्कृति: सर्वासु संस्कृतिषु श्रेष्ठतमा वर्तते ?

ब. पूर्णवाक्येन उत्तरत –

1.  विश्वस्य सर्वाभ्य: संस्कृतिभ्य: प्राचीनतमा संस्कृति: का ?
II.   वयं कस्यां गर्वम् अनुभवामः ?
III.भारतीयसंस्कृतेः प्रमुखा: विशेषता: का: सन्ति ?

स. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 

द. यथानिर्देशम् उत्तरत-

(i).“युष्माकम्” इति पदस्य विपरीतार्थकं पदम् अनुच्छेदात् चित्वा लिखत -
(क) सर्वाभ्यः                   (ख) अस्माकं
(ग)श्रेष्ठतमा                      (घ) अद्वितीया
(ii). "एतदेव अस्ति अनेकतायाम् एकता”। अस्मिन् वाक्ये किम् अव्ययपदं प्रयुक्तम् ?
 (क) एव                           (ख) अनेकतायाम्
  (ग) एतत्                          (घ) एकता
(iii) “संसारस्य” इत्यर्थं किं पदम् अनुच्छेदे प्रयुक्तम् ?
(क) भारतदेशस्य                (ख) भोजनस्य
(ग) अन्येषां                       (घ) विश्वस्य
(iv) “भारतीया संस्कृतिः” अत्र विशेषणपदं किम्?
(क) अस्माकं                       (ख) भारतीया
(ग) संस्कृति:                        (घ) प्राचीनतमा

              उत्तराणि

अ.एकपदेन उत्तरत -
(l) अद्वितीया।
(ll) भ्रातृत्व-भावनाम्।
(lll) भारतीया।

ब. पूर्णवाक्येन उत्तरत –
1.भारतीया संस्कृतिः  विश्वस्य सर्वाभ्य: संस्कृतिभ्य: प्राचीनतमा   संस्कृति:। 
II. वयं  संस्कृतौ गर्वम् अनुभवामः ।
III.भारतीयसंस्कृतेः प्रमुखा: विशेषता:  वर्णाश्रमव्यवस्था, पुरुषार्थचतुष्टयं,षोडशसंस्काराः, कर्मवादः, पुनर्जन्मवादः, सदाचारपालनं, त्याग: च सन्ति ।

स.शीर्षकं- अद्वितीया भारतीया संस्कृतिः।

द. यथानिर्देशम् उत्तरत-
(i)   (ख) अस्माकं ।
(ii)  (क) एव ।
(iii) (घ) विश्वस्य।
(iv)  (ख) भारतीया।

                                💐💐💐

अभ्यासप्रश्नपत्रं - १ (अपठित-अवबोधनम्)

        अभ्यासप्रश्नपत्रानुसारम्

    कक्षा - षष्ठी तःअष्टमी पर्यन्तं 

             खण्ड-क 

      (अपठित-अवबोधनम्)-(8अङ्काः)


प्रश्न 1.अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि  संस्कृतेन लिखत।
विद्यालयस्य पूर्वभागे एकः पुस्तकालयः अस्ति। पुस्तकालये विविधाः ग्रन्थाः सन्ति। ग्रन्थाः अस्मान् ज्ञानं प्रयच्छन्ति। छात्राः अवकाश-समयस्य सदुपयोगाय पुस्तकालये आगच्छन्ति। पुस्तकालये विविधाः पत्र-पत्रिकाः सन्ति। पुस्तकालय-अध्यक्षः अपि सहजः सरलश्च अस्ति । पुस्तकालयः वातानुकूलितम् अस्ति। पुस्तकालये संसाधनानाम् अभावः  कुत्रापि न दृश्यते।

अ.एकपदेन उत्तरत -

(क) विद्यालयस्य पूर्वभागे किम् अस्ति?
(ख) पुस्तकालयः कीदृशम् अस्ति?
(ग) ग्रन्थाः अस्मान् किं प्रयच्छन्ति?
(घ) पुस्तकालये विविधाः के सन्ति?

ब. पूर्णवाक्येन उत्तरत-

(क) छात्राः किमर्थं पुस्तकालये आगच्छन्ति?
(ख) कः सहजः सरलश्च अस्ति?

स.प्रदत्त विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत -

(i) अनेकाः इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्?
(क) विविधाः (ख) अस्मान् 
(ग) अभावः (घ) ग्रन्थाः 


(ii)असहजः इति पदस्य किं विपरीतार्थकं पदं गद्यांशे प्रयुक्तम्?
(क) सरलः (ख) विविधाः
(ग) सहजः (घ) अभावः


(iii) ग्रन्थाः इति विशेष्यपदस्य विशेषणपदं किम् अत्र प्रयुक्तम्?
(क) छात्राः (ख) विविधाः 
(ग) पुस्तकालयः (घ) विद्यालयः

द. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।

               उत्तराणि

अ.एकपदेन उत्तरत -

(क) पुस्तकालयः।
(ख) वातानुकूलितम्।
(ग) ज्ञानम्।
(घ) ग्रन्थाः।

ब. पूर्णवाक्येन उत्तरत-

(क) छात्राः अवकाश-समयस्य सदुपयोगाय पुस्तकालये आगच्छन्ति।
(ख) पुस्तकालय - अध्यक्षः सहजः सरलश्च अस्ति।

स.प्रदत्त विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत -

(i) (क) विविधाः ।      
(ii)(ग) सहजः ।   
(iii)(ख) विविधाः ।

द.शीर्षकं- ज्ञानस्य कोषः - पुस्तकालयः।

                              💐💐💐

अद्यतनसुभाषितम्

 

          अद्यतनसुभाषितम्      

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः। 

उपकारिषु यः साधुः स साधुरिति कीर्तितः।।

अर्थात् उपकार करने वाले के साथ जो सज्जनता से व्यवहार करता है उसकी सज्जनता का क्या अर्थ है?जो अपकार करने वाले के साथ भी सज्जनता से व्यवहार करता है वहीं सज्जन (साधु) है। 

बुधवार, 1 फ़रवरी 2023

अद्यतनसुभाषितम्

 


         अद्यतनसुभाषितम्        

  उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः।।

अर्थात् जिस प्रकार सोये हुए शेर के मुख में पशु स्वयं प्रवेश नहीं करते वैसे ही केवल इच्छा करने से कार्य सिद्ध नहीं होते,मेहनत करने  से ही होते हैं।

अद्यतनं सुभाषितम्

 





     अद्यतनं सुभाषितम् 

कल्पद्रुमः कल्पितमेव सूते, 
सा कामधुक् कामितमेव दोग्धि ।
चिन्तामणिः चिन्तितं एव दत्ते ,
सतां हि  सङ्गः सकलं प्रसूते।।

अर्थात् कल्पवृक्ष कल्पना किया हुआ ही देता है, कामधेनु इच्छित वस्तु ही देती है, चिन्तामणि जिसका चिन्तन करते हैं ,वहीं देता है लेकिन सत्संग तो  सब कुछ ही देता है।

अद्यतन-सूक्ति

  "सूर्यवत् उद्भासितुम् इच्छति चेत् तत् वत् तपेत् आद्यम्" अर्थात् (यदि आप) सूर्य के समान चमकना चाहते हैं तो सूर्य के समान तपना सीखिए।